Sanskrit Text
११.६ षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।
ईश्वर उवाच ।
महासेन कुशग्रन्थिपुत्राजीवादयः परे ।
रुद्राक्षस्य तु नैकोऽपि कलामर्हति षोडशीम् ॥ १ ॥
पुरुषाणां यथा विष्णुर्ग्रहाणां च यथा रविः ।
नदीनां तु यथा गङ्गा मुनीनां कश्यपो यथा ॥ २ ॥
उच्चैःश्रवा यथाश्वानां देवानामीश्वरो यथा ।
देवीनां तु यथा गौरी तद्वच्छ्रेष्ठमिदं भवेत् ॥ ३ ॥
English Translation
Īśvara said :-- O Kārtikeya! Kuśagranthi, Jīvapattrī and other rosaries cannot compare to one-sixteenth part of the Rudrākṣa rosary. As Viṣṇu is the best of all the Puruṣas, the Gaṅgā is the best of all the rivers, Kaśyapa, amongst the Munis, Uccaiḥsravā amongst the horses, Mahā Deva amongst the Devas, Bhagavatī amongst the Devīs, so the Rudrākṣam rosary is the best of all the rosaries.