Sanskrit Text
११.७ सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।
श्रीनारायण उवाच ।
एवं नारद षड्वक्त्रो गिरिशेन विबोधितः ।
रुद्राक्षमहिमानं च ज्ञात्वासीत्स कृतार्थकः ॥ १ ॥
इत्थं भूतानुभावोऽयं रुद्राक्षो वर्णितो मया ।
सदाचारप्रसङ्गेन शृणु चान्यत्समाहितः ॥ २ ॥
English Translation
Śrī Nārāyaṇa said :-- O Nārada! When Girīśa thus explained to Kārtikeya the greatness of Rudrākṣam, he became satisfied. Now I have spoken to you of the glories of the Rudrākṣams as far as I know.