Sanskrit Text
९.३९ एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।
नारद उवाच ।
श्रीमूलप्रकृतेर्देव्या गायत्र्यास्तु निराकृतेः ।
सावित्रीयमसंवादे श्रुतं वै निर्मलं यशः ॥ १ ॥
तद्गुणोत्कीर्तनं सत्यं मङ्गलानां च मङ्गलम् ।
अधुना श्रोतुमिच्छामि लक्ष्म्युपाख्यानमीश्वर ॥ २ ॥
English Translation
Nārada said :-- “O Lord! I have heard in the discourse on Sāvitrī and Yama about the Formless Devī Mūla Prakriti and the glories of Sāvitrī, all true and leading to the endless good. Now I want to hear the story of the Devī Lakṣmī. O Thou, the Chief of the knowers of the Vedas! What is the nature of Lakṣmī?