Sanskrit Text
शेषो वक्त्रसहस्रेण नहि यद्वक्तुमीश्वरः ।
मृत्युञ्जयो न क्षमश्च वक्तुं पञ्चमुखेन च ॥ ९ ॥
धाता चतुर्णां वेदानां विधाता जगतामपि ।
ब्रह्मा चतुर्मुखेनैव नालं विष्णुश्च सर्ववित् ॥ १० ॥
कार्तिकेयः षण्मुखेन नापि वक्तुमलं ध्रुवम् ।
न गणेशः समर्थश्च योगीन्द्राणां गुरोर्गुरुः ॥ ११ ॥
सारभूताश्च शास्त्राणां वेदाश्चत्वार एव च ।
कलामात्रं यद्गुणानां न विदन्ति बुधाश्च ये ॥ १२ ॥
सरस्वती जडीभूता नालं तद्गुणवर्णने ।
सनत्कुमारो धर्मश्च सनन्दनः सनातनः ॥ १३ ॥
सनकः कपिलः सूर्यो येऽन्ये च ब्रह्मणः सुताः ।
विचक्षणा न यद्वक्तुं किञ्चान्ये जडबुद्धयः ॥ १४ ॥
न यद्वक्तुं क्षमाः सिद्धा मुनीन्द्रा योगिनस्तथा ।
के चान्ये च वयं के वा श्रीदेव्या गुणवर्णने ॥ १५ ॥
ध्यायन्ते यत्पदाम्भोजं ब्रह्मविष्णुशिवादयः ।
अतिसाध्यं स्वभक्तानां तदन्येषां सुदुर्लभम् ॥ १६ ॥
कश्चित्किञ्चिद्विजानाति तद्गुणोत्कीर्तनं शुभम् ।
अतिरिक्तं विजानाति ब्रह्मा ब्रह्मविशारदः ॥ १७ ॥
ततोऽतिरिक्तं जानाति गणेशो ज्ञानिनां गुरुः ।
सर्वातिरिक्तं जानाति सर्वज्ञः शम्भुरेव सः ॥ १८ ॥
English Translation
When the Śesa Nāga Ananta Deva with His thousand mouths is unable to recite the glories of the Devī, when Mahādeva cannot describe with His five mouths, when the Creator Brahmā is incapable to recite Her glories with His four mouths, when Viṣṇu, the Omniscient, falls back, when Kārtīkeya with His six mouths cannot sufficiently describe, when Ganeśa, the Guru of the Gurus of the great yogis is incapable, when the Pundits, the knowers of the four Vedas, the Essence of all the Śāstras, cannot know even a bit of Her, when Sarasvatī becomes inert in going to describe Her glories; when Sanatkumara, Dharma, Sanātana, Sananda, Sanaka, Kapila, Sūrya and other sons of the Creator have fallen back, when the other Siddhas, Yogīndras, Munīndras are quite incapable to glorify the deeds of Prakriti Devī, then how can I recite fully the Glories of Her? Whose lotus-feet Brahmā, Viṣṇu, Śiva and others meditate; and lo! when it becomes difficult for Her devotees even to think of Her, then what wonder is there that She will be so very rare to others! Brahmā, skilled in the knowledge of the Vedas knows more of Her than what other ordinary persons know so little of Her auspicious Glories.