Sanskrit Text
७.३७ सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।
हिमालय उवाच ।
स्वीयां भक्तिं वदस्वाम्ब येन ज्ञानं सुखेन हि ।
जायेत मनुजस्यास्य मध्यमस्याविरागिणः ॥ १ ॥
English Translation
The Himālayās said :-- "O Mother! Now describe your Bhaki Yoga, by which ordinary men who have no dispassion get the knowledge of Brahma easily.