Sanskrit Text
७.३८ अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।
हिमालय उवाच ।
कति स्थानानि देवेशि द्रष्टव्यानि महीतले ।
मुख्यानि च पवित्राणि देवीप्रियतमानि च ॥ १ ॥
व्रतान्यपि तथा यानि तुष्टिदान्युत्सवा अपि ।
तत्सर्वं वद मे मातः कृतकृत्यो यतो नरः ॥ २ ॥
English Translation
The Himālayās said :-- "O Devī! Describe the places on this earth that are prominent, sacred, and worth visiting and which Thou likest best. O Mother! Also sanctify us by describing the vows and utsabs that are pleasing to Thee, and by performing which, men become blessed and get themselves satisfied.