Sanskrit Text
६.२७ सप्तविंशोऽध्यायः । नारदस्य मायादमयन्त्या सह विवाहवर्णनम् ।
नारद उवाच ।
तत्पुत्र्या वचनं श्रुत्वा राजा धात्रीमुखात्ततः ।
भार्यां प्रोवाच कैकेयीं समीपस्थां सुलोचनाम् ॥ १ ॥
राजोवाच ।
यदुक्तं वचनं कान्ते धात्र्या तत्तु त्वया श्रुतम् ।
वृतोऽयं नारदः कामं मुनिर्वानरवक्त्रभाक् ॥ २ ॥
English Translation
Nārada said :-- On hearing these words of her daughter from her nurse, the King addressed the queen Kaikeyī, of lovely eyes, standing close by, thus :-- “Have you heard what the nurse has said? Damayantī has mentally chosen the monkey-faced Nārada as her husband.