Sanskrit Text
६.२६ षड्विंशोऽध्यायः । दमयन्तीविवाहप्रस्ताववर्णनम् ।
व्यास उवाच ।
इति मे वचनं श्रुत्वा नारदः परमार्थवित् ।
मामाह च स्मितं कृत्वा पृच्छन्तं मोहकारणम् ॥ १ ॥
नारद उवाच ।
पाराशर्य पुराणज्ञ किं पृच्छसि सुनिश्चयम् ।
संसारेऽस्मिन्विना मोहं कोऽपि नास्ति शरीरवान् ॥ २ ॥
English Translation
Vyāsa said :-- O King! When I asked him why this delusion overtook me, Maharṣi Nārada smiled and said :-- “O son of Parāśara! You are thoroughly acquainted with all the Purāṇas. Why then are you making this question about the cause of my Moha (delusion).