Sanskrit Text
६.१९ एकोनविंशोऽध्यायः । पुत्रजन्मानन्तरं स्वस्वरूपेण वैकुण्ठगमनवर्णनम् ।
व्यास उवाच ।
तस्यै दत्त्वा वरं शम्भुः कैलासं त्वरितो ययौ ।
रम्यं देवगणैर्जुष्टमप्सरोभिश्च मण्डितम् ॥ १ ॥
तत्र गत्वा चित्ररूपं गणं कार्यविशारदम् ।
प्रेषयामास वैकुण्ठे लक्ष्मीकार्यार्थसिद्धये ॥ २ ॥
English Translation
Vyāsa said :-- O King! Thus granting the boon to the Goddess Lakṣmī, Śambhu quickly returned to the lovely Kailāśa, adorned with Apsarās (celestial nymphs) and frequented and served by the Gods. He then despatched his expert attendant Citrarūpa to Vaikuṇṭha to bring the purpose of Lakṣmī to a successful issue.