Sanskrit Text
६.२० विंशोऽध्यायः । एकवीराख्यानवर्णनम् ।
जनमेजय उवाच ।
संशयोऽयं महानत्र जातमात्रः शिशुस्तथा ।
मुक्तः केन गृहीतोऽसावेकाकी विजने वने ॥ १ ॥
का गतिस्तस्य बालस्य जाता सत्यवतीसुत ।
व्याघ्रसिंहादिभिर्हिंस्रैर्गृहीतो नातिबालकः ॥ २ ॥
English Translation
Janamejaya said :-- “O Bhagavān! A great doubt has arisen in my mind on this subject. Who was it that took away that son, when both Lakṣmī and Nārāyaṇa left it, in that forlorn state, in a forest without any person there to look after?”