Sanskrit Text
गङ्गा च यमुना चैव विपाशा च सरस्वती ।
सरयूर्देविका सिन्धुर्नर्मदैरावती तथा ॥ १७ ॥
गोदावरी शतद्रूश्च कावेरी देवलोकगा ।
कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ॥ १८ ॥
गण्डकी तापिनी तोया गोमती वेत्रवत्यपि ।
इडा च पिङ्गला चैव सुषुम्णा च तृतीयका ॥ १९ ॥
गान्धारी हस्तिजिह्वा च पूषापूषा तथैव च ।
अलम्बुषा कुहूश्चैव शङ्खिनी प्राणवाहिनी ॥ २० ॥
नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः ।
हृत्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ॥ २१ ॥
English Translation
Thou art the Gaṅgā, Yamunā, Vipāśā, Sarasvatī, Sarayu, Devīkā, Sindhu; Narmadā, Īrāvatī, Godāvarī, Śatadru; Kāverī, Kauśikī, Candra Bhāgā, Vitastā, Gaṇḍakī, Tapinī, Karatoyā, Gomatī, and Vetravatī and other rivers; Thou art the Iḍā, Piṅgalā, and Suṣumnā nerves; Thou art Gāndhārī, Hastajihvā, Pūṣā, Apūṣā, Alambusā, Kuhū, Śaṅkhinī, Prānavāhinī and other nerves in the body; O Devī! Thou art the vital power in the lotus of the heart; Thou art Svapna nāikā in the throat; Thou art Sadādhārā in the palate; and Thou art the Vindumālinī Śakti in the pituitary space between the eyebrows.