Sanskrit Text
१२.२ द्वितीयोऽध्यायः । गायत्रिशक्त्यादिप्रतिपादनम् ।
श्रीनारायण उवाच ।
वर्णानां शक्तयः काश्च ताः शृणुष्व महामुने ।
वामदेवी प्रिया सत्या विश्वा भद्रविलासिनी ॥ १ ॥
प्रभावती जया शान्ता कान्ता दुर्गा सरस्वती ।
विद्रुमा च विशालेशा व्यापिनी विमला तथा ॥ २ ॥
तमोऽपहारिणी सूक्ष्मा विश्वयोनिर्जया वशा ।
पद्मालया परा शोभा भद्रा च त्रिपदा स्मृता ॥ ३ ॥
चतुर्विंशतिवर्णानां शक्तयः समुदाहृताः ।
अतः परं वर्णवर्णान्व्याहरामि यथातथम् ॥ ४ ॥
English Translation
Nārāyaṇa said :-- O Nārada! O Great Muni! Now hear which are the Śaktis in due order of the twenty four syllables of the Gāyatrī Devī:-- (1) Vāma Devī, (2) Priyā, (3) Satyā, (4) Viśvā, (5) Bhadravilāsinī, (6) Prabhā Vatī, (7) Jayā, (8) Śāntā, (9) Kāntā, (10) Durgā, (11) Sarasvatī, (12) Vidrumā, (13) Viśāle’sā, (14) Vyāpinī, (15) Vimalā, (16) Tamopahāriṇī, (17) Sūkṣmā, (18) Viśvayoni, (19) Jayā, (20) Vaśā, (21) Padmālayā, (22) Parāśobhā, (23) Bhadrā, and (24) Tripadā.