Śrīmad Devī Bhāgavatam

BOOK 12 • CHAPTER 1
Ch 1 Verse 1-2 Verse
१२.१ प्रथमोऽध्यायः । गायत्रीविचारः । नारद उवाच । सदाचारविधिर्देव भवता वर्णितः प्रभो । तस्याप्यतुलमाहात्म्यं सर्वपापविनाशनम् ॥ १ ॥ श्रुतं भवन्मुखाम्भोजच्युतं देवीकथामृतम् । व्रतानि यानि चोक्तानि चान्द्रायणमुखानि ते ॥ २ ॥
Nārada said :-- O Deva! The rules of Sadācāra (right ways of living) and the all-sin-destroying unequalled Glories of the Devī Bhagavatī have been described by Thee. And I, too, have heard the nectar of the Glories of the Devī from Thy lotus mouth. The Cāndrāyaṇa and other Vratas; described by Thee, are very difficult to practise. So they are impracticable with the ordinary persons.
Ch 1 Verse 3-4 Verse
दुःखसाध्यानि जानीमः कर्तृसाध्यानि तानि च । तदस्मात्साम्प्रतं यत्तु सुखसाध्यं शरीरिणाम् ॥ ३ ॥ देवीप्रसादजनकं शुभानुष्ठानसिद्धिदम् । तत्कर्म वद मे स्वामिन् कृपापूर्वं सुरेश्वर ॥ ४ ॥
Therefore, O Lord! Kindly describe those actions which can easily be carried out by common persons, at the same time, the Devī’s Grace and Siddhis can be obtained by those practices.
Ch 1 Verse 5-7 Verse
सदाचारविधौ यश्च गायत्रीविधिरीरितः । तस्मिन्मुख्यतमं किं स्यात्किं वा पुण्याधिकप्रदम् ॥ ५ ॥ ये गायत्रीगता वर्णास्तत्त्वसङ्ख्यास्त्वयेरिताः । तेषां के ऋषयः प्रोक्ताः कानि छन्दांसि वै मुने ॥ ६ ॥ तेषां का देवताः प्रोक्ताः सर्वं कथय मे प्रभो । महत्कौतूहलं मे च मानसे परिवर्तते ॥ ७ ॥
Again what thou hast described about the Gāyatrī in connection with Sadācāra kindly say which are the chief and foremost as well as those that are more meritorious. O Best of the Munis! Thou hast told that there are the twenty-four syllables in the Gāyatrī. Kindly describe now their Ṛṣis, Chandas, Devatās and other things that should be known regarding them and thus satisfy my longings.
Ch 1 Verse 8-9 Verse
श्रीनारायणाय उवाच । कुर्यादन्यन्न वा कुर्यादनुष्ठानादिकं तथा । गायत्रीमात्रनिष्ठस्तु कृतकृत्यो भवेद्द्विजः ॥ ८ ॥ सन्ध्यासु चार्घ्यदानं च गायत्रीजपमेव च । सहस्रत्रितयं कुर्वन्सुरैः पूज्यो भवेन्मुने ॥ ९ ॥
Śrī Nārāyaṇa said :-- O Nārada! The twice-born would have done what they ought to do if they be engaged in repeating their Gāyatrī only, whether they be able or not able to practise the Cāndrāyaṇa and the other vratas. Whichever Brāhmin repeats the Gāyatrī three thousand times and offers Arghya to the Sun in the three Sandhyā times, the Devas worship him; what to speak of other ordinary persons!
Ch 1 Verse 10-12 Verse
न्यासान्करोतु वा मा वा गायत्रीमेव चाभ्यसेत् । ध्यात्वा निर्व्याजया वृत्त्या सच्चिदानन्दरूपिणीम् ॥ १० ॥ यदक्षरैकसंसिद्धेः स्पर्धते ब्राह्मणोत्तमः । हरिशङ्करकञ्जोत्थसूर्यचन्द्रहुताशनैः ॥ ११ ॥ अथातः श्रूयतां ब्रह्मन् वर्णऋष्यादिकांस्तथा । छन्दांसि देवतास्तद्वत्क्रमात्तत्त्वानि चैव हि ॥ १२ ॥
Whether he practises Nyāsa or not, if anybody sincerely repeats the Gāyatrī Devī, Whose Nature is Existence, Intelligence, and Bliss and meditates on Her, even if he attains siddhi in one syllable even, then as a result of that, he can vie with the best of the Brāhmaṇas, the Moon, and the Sun; nay, with Brahmā, Viṣṇu, and Maheśvara even! O Nārada! Now I will tell in due order the Ṛṣis, Chandas, and the Devatās of the twenty-four syllables of the Gāyatrī.
Ch 1 Verse 13-15 Verse
वामदेवोऽत्रिर्वसिष्ठः शुक्रः कण्वः पराशरः । विश्वामित्रो महातेजाः कपिलः शौनको महान् ॥ १३ ॥ याज्ञवल्क्यो भरद्वाजो जमदग्निस्तपोनिधिः । गौतमो मुद्गलश्चैव वेदव्यासश्च लोमशः ॥ १४ ॥ अगस्त्यः कौशिको वत्सः पुलस्त्यो माण्डुकस्तथा । दुर्वासास्तपसां श्रेष्ठो नारदः कश्यपस्तथा ॥ १५ ॥
The Ṛṣis, in due order, are (1) Vāma Deva, (2) Attri, (3) Vaśiṣṭha, (4) Śukra, (5) Kaṇva, (6) Parāśara, (7) the very fiery Viśvamitra, (8) Kapila, (9) Śauṇaka, (10) Yājñavalkya, (11) Bharadvāja, (12) the ascetic Jamadagni, (13) Gautama, (14) Mudgala, (15) Vedavyāsa, (16) Lomaśa, (17) Agastya, (18) Kauśika, (19) Vatsya, (20) Pulastya, (21) Māṇḍuka, (22) the ascetic in chief Durvāsā, (23) Nārada and (24) Kaśyapa.
Ch 1 Verse 16-19 Verse
इत्येते ऋषयः प्रोक्ता वर्णानां क्रमशो मुने । गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥ १६ ॥ त्रिष्टुभं जगती चैव तथातिजगती मता । शक्वर्यतिशक्वरी च धृतिश्चातिधृतिस्तथा ॥ १७ ॥ विराट्प्रस्तारपङ्क्तिश्च कृतिः प्रकृतिराकृतिः । विकृतिः सकृतिश्चैवाक्षरपङ्क्तिस्तथैव च ॥ १८ ॥ भूर्भुवः स्वरितिच्छन्दस्तथा ज्योतिष्मती स्मृतम् । इत्येतानि च छन्दांसि कीर्तितानि महामुने ॥ १९ ॥
Now about the chandas :-- (1) Gāyatrī, (2) Uṣṇik, (3) Anuṣṭup, (4) Brihatī, (5) Pankti, (6) Tṛṣṇup, (7) Jagatī, (8) Atijagatī, (9) Śakkarī, (10) Ati Śakkarī, (11) Dhriti, (12) Ati Dhriti, (13) Virāṭ, (14) Prastārapankti, (15) Kṛti, (16) Prākriti, (17) Ākriti, (18) Vikṛti, (19) Samkṛti, (20) Akṣarapankti, (21) Bhuḥ, (22) Bhuvaḥ, (23) Svaḥ and (24) Jyotiṣmatī.
Ch 1 Verse 20-26 Verse
दैवतानि शृणु प्राज्ञ तेषामेवानुपूर्वशः । आग्नेयं प्रथमं प्रोक्तं प्राजापत्यं द्वितीयकम् ॥ २० ॥ तृतीयं च तथा सौम्यमीशानं च चतुर्थकम् । सावित्रं पञ्चमं प्रोक्तं षष्ठमादित्यदैवतम् ॥ २१ ॥ बार्हस्पत्यं सप्तमं तु मैत्रावरुणमष्टमम् । नवमं भगदैवत्यं दशमं चार्यमेश्वरम् ॥ २२ ॥ गणेशमेकादशकं त्वाष्ट्रं द्वादशकं स्मृतम् । पौष्णं त्रयोदशं प्रोक्तमैन्द्राग्नं च चतुर्दशम् ॥ २३ ॥ वायव्यं पञ्चदशकं वामदैव्यं च षोडशम् । मैत्रावरुणिदैवत्यं प्रोक्तं सप्तदशाक्षरम् ॥ २४ ॥ अष्टादशं वैश्वदेवमूनविंशं तु मातृकम् । वैष्णवं विंशतितमं वसुदैवतमीरितम् ॥ २५ ॥ एकविंशतिसङ्ख्याकं द्वाविंशं रुद्रदैवतम् । त्रयोविंशं च कौबेरमाश्विनं तत्त्वसङ्ख्यकम् ॥ २६ ॥
The Devatās of the several letters in due order, are :-- (1) Agni, (2) Prajāpati, (3) Soma, (4) Īśāna, (5) Savitā, (6) Āditya, (7) Brihaspati, (8) Maitrāvaruṇa, (9) Bhagadeva, (10) Aryamā, (11) Gaṇeśa, (12) Tvaṣṭrā, (13) Pūṣā, (14) Indrāgnī, (l5) Vāyu, (16) Vāmadeva, (17) Maitrā varunī (18) Viśvadeva, (19) Mātrikā, (20) Viṣṇu, (21) Vasu, (22) Rudra Deva, (23) Kuvera, and (24) the twin Aśvinī Kumāras.
Ch 1 Verse 27 Verse
चतुर्विंशतिवर्णानां देवतानां च सङ्ग्रहः । कथितः परमश्रेष्ठो महापापैकशोधनः । यदाकर्णनमात्रेण साङ्गं जाप्यफलं मुने ॥ २७ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीविचारो नाम प्रथमोऽध्यायः ॥ १२.१॥
O Nārada! Thus I have described to you about the the Devatās of the twenty-four syllables. The hearing of this destroys all sins and yields the full results of repeating the mantra Gāyatrī. (Note :-- The Devatās, mentioned in the Gāyatrī Brahmā Kalpa are different from those mentioned here.) Here ends the first Chapter of the Twelfth Book on the description of Gāyatrī in the Mahāpurāṇam Śrī Mad Devī Bhāgavatam of 18,000 verses by Maharṣi Veda Vyāsa.