Sanskrit Text
पुरश्चरणहीनस्तु तथा मन्त्रः प्रकीर्तितः ।
ज्येष्ठाषाढौ भाद्रपदं पौषं तु मलमासकम् ॥ २५ ॥
अङ्गारं शनिवारं च व्यतीपातं च वैधृतिम् ।
अष्टमीं नवमीं षष्ठीं चतुर्थीं च त्रयोदशीम् ॥ २६ ॥
चतुर्दशीममावास्यां प्रदोषं च तथा निशाम् ।
यमाग्निरुद्रसर्पेन्द्रवसुश्रवणजन्मभम् ॥ २७ ॥
मेषकर्कतुलाकुम्भान्मकरं चैव वर्जयेत् ।
सर्वाण्येतानि वर्ज्यानि पुरश्चरणकर्मणि ॥ २८ ॥
English Translation
The Puraścaraṇam is prohibited in the months of Jyaiṣṭha, Āṣāḍha, Pauṣa and Mala (dirty) months. Also on Tuesday, Saturday; in the Vyatīpāta and Vaidhriti Yogas; also in Aṣṭamī (eighth), Navamī (ninth), Ṣaṣṭhī (sixth), Caturthī (fourth) Trayodaśī (thirteenth), Caturdasī (fourteenth) and Amāvāsyā (New Moon), Tithis (lunar days); in the evening twilight and in the night; while the star Bharaṇī, Krittikā, Ārdrā, Aśleṣā, Jyeṣṭhā, Dhaniṣṭhā, Śravaṇā, or the Janma nakṣatra (Birth time star) is with the Moon; while the signs Meṣa, Karkaṭa, Tulā, Kumbha, and Makara are the Lagnas (signs in the ascendant).