Sanskrit Text
देवानां च यथा विष्णुर्वैष्णवानां च नारद ।
शास्त्राणां च यथा वेदा वर्णानां ब्राह्मणो यथा ॥ १२७ ॥
तीर्थानां च यथा गङ्गा पवित्राणां शिवो यथा ।
एकादशी व्रतानां च पुष्पाणां तुलसी यथा ॥ १२८ ॥
नक्षत्राणां यथा चन्द्रः पक्षिणां गरुडो यथा ।
यथा स्त्रीणां च प्रकृती राधा वाणी वसुन्धरा ॥ १२९ ॥
शीघ्राणां चेन्द्रियाणां च चञ्चलानां मनो यथा ।
प्रजापतीनां ब्रह्मा च प्रजानां च प्रजापतिः ॥ १३० ॥
वृन्दावनं वनानां च वर्षाणां भारतं यथा ।
श्रीमतां च यथा श्रीश्च विदुषां च सरस्वती ॥ १३१ ॥
पतिव्रतानां दुर्गा च सौभाग्यानां च राधिका ।
देवीयज्ञस्तथा वत्से सर्वयज्ञेषु भामिनि ॥ १३२ ॥
अश्वमेधशतेनैव शक्रत्वं च लभेद्ध्रुवम् ।
सहस्रेण विष्णुपदं सम्प्राप्तः पृथुरेव च ॥ १३३ ॥
English Translation
O Child! This Devī Yajñā is the best and highest of all the sacrifices as Viṣṇu is the highest amongst the Devas; Nārada, amongst the Vaiṣṇavas; the Vedas, amongst all the Śāstras; the Brāhmaṇas amongst all the castes; the Ganges amongst the sacred places of pilgrimages, Śiva amongst the Holy of Holies, the Ekādaśī vow amongst all the Vratas; Tulasī, amongst all the flowers; the Moon, amongst the asterisms; Garuḍa, amongst the birds; Prakriti, Rādhā, Sarasvatī and Earth amongst the females; the mind, amongst the quick-going and restless senses; Brahmā, amongst the Prajāpatis; Brahmā, amongst all the subjects; Vrindrāban, amongst all the forests; Bharat Varṣa, amongst all the Varṣas; Lakṣmī, amongst the prosperous; Sarasvatī, amongst the learned; Durgā, amongst the chaste; Radhikā, amongst the fortunate. If one hundred horse sacrifices are performed, Indrahood is sure to be obtained.