Sanskrit Text
९.२९ एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।
श्रीनारायण उवाच ।
सावित्रीवचनं श्रुत्वा जगाम विस्मयं यमः ।
प्रहस्य वक्तुमारेभे कर्मपाकं तु जीविनाम् ॥ १ ॥
English Translation
Nārāyaṇa said :-- Yama got thunderstruck at these queries of Sāvitrī. He then began to describe, with a smiling countenance, the fruition of the several works of the Jīvas. 2-