Sanskrit Text
८.१४ चतुर्दशोऽध्यायः । सूर्यगतिवर्णनम् ।
नारायण उवाच ।
ततः परस्तादचलो लोकालोकेति नामकः ।
अन्तराले च लोकालोकयोर्यः परिकल्पितः ॥ १ ॥
यावदस्ति च देवर्षे ह्यन्तरं मानसोत्तरात् ।
सुमेरोस्तावती शुद्धा काञ्चनी भूमिरस्ति हि ॥ २ ॥
English Translation
Nārāyaṇa said :-- Next to the ocean of pure water, is the mountain, called Lokāloka. It marks the sphere between the two countries Loka and Aloka. O Devarṣi! There is a land, all of pure gold (beyond this ocean of pure water) for a space equal to the distance between Mānasottara and Meru.