Sanskrit Text
८.६ षष्ठोऽध्यायः । भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम् ।
श्रीनारायण उवाच ।
अरुणोदा नदी या तु मया प्रोक्ता च नारद ।
मन्दरान्निपतन्ती सा पूर्वेणेलावृतं प्लवेत् ॥ १ ॥
यज्जोषणाद्भवान्याश्चानुचरीणां स्त्रियामपि ।
यक्षगन्धर्वपत्नीनां देहगन्धवहोऽनिलः ॥ २ ॥
वासयत्यभितो भूमिं दशयोजनसङ्ख्यया ।
एवं जम्बूफलानां च तुङ्गदेशनिपातनात् ॥ ३ ॥
English Translation
Nārāyaṇa said :-- O Nārada! This Aruṇodā river that I mentioned to you rises from the Mandara mountain and flows by the east of Ilāvarṣa. The Pavana Deva (the God of wind) takes up the nice smell from the bodies of the wives of the Yakṣas and Gandharbas, etc., and the attendants of the Devī Bhavānī and keeps the surroundings of the earth there filled with nice smell for ten Yoyanas around.