Sanskrit Text
८.५ पञ्चमोऽध्यायः । भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम् ।
श्रीनारायण उवाच ।
देवर्षे शृणु विस्तारं द्वीपवर्षविभेदतः ।
भूमण्डलस्य सर्वस्य यथा देवप्रकल्पितम् ॥ १ ॥
समासात्सम्प्रवक्ष्यामि नालं विस्तरतः क्वचित् ।
जम्बुद्वीपः प्रथमतः प्रमाणे लक्षयोजनः ॥ २ ॥
English Translation
Śrī Nārāyaṇa said :-- O Child Nārada! Now hear in detail about the divisions of the earth into the Dvīpas and the Varṣas as marked out by the Devas. In brief, I describe about them; no one can speak about this in details. First, the Jambu Dvīpa is one lākh Yoyanas in its dimensions.