Sanskrit Text
७.२९ एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।
व्यास उवाच -
इत्येवं सूर्यवंश्यानां राज्ञां चरितमुत्तमम् ।
सोमवंशोद्भवानां च वर्णनीयं मया कियत् ॥ १ ॥
पराशक्तिप्रसादेन महत्त्वं प्रतिपेदिरे ।
राजन् सुनिश्चितं विद्धि पराशक्तिप्रसादतः ॥ २ ॥
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं पराशक्त्यंशसम्भवम् ॥ ३ ॥
एते चान्ये च राजानः पराशक्तेरुपासकाः ।
संसारतरुमूलस्य कुठारा अभवन्नृप ॥ ४ ॥
English Translation
All their prowess, bravery, prosperity and all their glory, know that those all were derived from the mere parts of the Parā Śakti. O King! Those Kings and others as well were able to out off the Tree of this World by the Axe of their Knowledge, simply because they were the devotees of the Parā Śakti.