Sanskrit Text
७.२८ अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।
जनमेजय उवाच -
विचित्रमिदमाख्यानं हरिश्चन्द्रस्य कीर्तितम् ।
शताक्षीपादभक्तस्य राजर्षेर्धार्मिकस्य च ॥ १ ॥
शताक्षी सा कुतो जाता देवी भगवती शिवा ।
तत्कारणं वद मुने सार्थकं जन्म मे कुरु ॥ २ ॥
English Translation
Janamejaya said :-- “O Ṛṣi! Wonderful is the story of the religious Rājarṣi Hariścandra that you have described, the great Bhakta of Śatākṣī Devī! Why is that auspicious Śivā, the wife of Śiva, called Śatākṣī? Explain to me, the cause of it, O Muni! And thus make my birth full of use and success.