Sanskrit Text
७.२३ त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।
व्यास उवाच -
तमेवमुक्त्वा राजानं निर्घृणं निष्ठुरं वचः ।
तदादाय धनं पूर्णं कुपितः कौशिको ययौ ॥ १ ॥
विश्वामित्रे गते राजा ततः शोकमुपागतः ।
श्वासोच्छ्वासं मुहुः कृत्वा प्रोवाचोच्चैरधोमुखः ॥ २ ॥
English Translation
Vyāsa said :-- O King! Speaking these harsh and cruel words to the King, the Muni took that money and went away. When Viśvāmitra went away, the King Hariścandra became very much perplexed with sorrows and sighed frequently. He then began to say with his face bent downwards.