Sanskrit Text
७.२२ द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।
व्यास उवाच -
स तया नोद्यमानस्तु राजा पत्न्या पुनः पुनः ।
प्राह भद्रे करोम्येष विक्रयं ते सुनिर्घृणः ॥ १ ॥
नृशंसैरपि यत्कर्तुं न शक्यं तत्करोम्यहम् ।
यदि ते भ्राजते वाणी वक्तुमीदृक्सुनिष्ठुरम् ॥ २ ॥
English Translation
Vyāsa said :-- O King! When the Queen Madhavī requested repeatedly the King, He said :-- “O Good Auspicious One! When you have not met with any scruple to utter clearly these harsh and cruel words, I will do that act now which the most ruthless persons do not dare to do.”