Sanskrit Text
६.२९ एकोनत्रिंशोऽध्यायः । नारदस्य पुनः स्वरूपप्राप्तिवर्णनम् ।
नारद उवाच ।
इत्युक्तोऽहं तदा तेन राज्ञा तालध्वजेन च ।
विमृश्य मनसात्यर्थं तमुवाच विशाम्पते ॥ १ ॥
राजन्नाहं विजानामि पुत्री कस्येति निश्चयम् ।
पितरौ क्व च मे केन स्थापिता च सरोवरे ॥ २ ॥
किं करोमि क्व गच्छामि कथं मे सुकृतं भवेत् ।
निराधारास्मि राजेन्द्र चिन्तयामि चिकीर्षितम् ॥ ३ ॥
English Translation
Nārada said :-- O Dvaipāyana! When the King Tāladhvaja asked me thus, I thought over earnestly and said thus :-- “I do not know whose daughter I am; nor do I know quite certainly where are my father and mother; one man placed me here on this tank and has gone away, whither I do not know.