Sanskrit Text
ब्रह्माण्डमखिलं सर्वं तत्र स्थावरजङ्गमम् ।
अहं विष्णुश्च रुद्रश्च वायुरग्निर्यमो रविः ॥ १५ ॥
वरुणः शीतगुस्त्वष्टा कुबेरः पाकशासनः ।
पर्वताः सागरा नद्यो गन्धर्वाप्सरसस्तथा ॥ १६ ॥
विश्वावसुश्चित्रकेतुः श्वेतश्चित्राङ्गदस्तथा ।
नारदस्तुम्बुरुश्चैव हाहाहूहूस्तथैव च ॥ १७ ॥
अश्विनौ वसवः साध्याः सिद्धाश्च पितरस्तथा ।
नागाः शेषादयः सर्वे किन्नरोरगराक्षसाः ॥ १८ ॥
वैकुण्ठो ब्रह्मलोकश्च कैलासः पर्वतोत्तमः ।
सर्वं तदखिलं दृष्टं नखमध्यस्थितं च नः ॥ १९ ॥
English Translation
Listen. We saw the whole universe, moving and non-moving within the nails of the lotus feet of the Devī. We saw there myself, Viṣṇu, Rudra, Vāyu, Agni, Yama, Moon, Sun, Varuṇa, Tvaṣṭā, Indra, Kuvera and other Devas, Apsarās, Gandarbhas, rivers, oceans, mountains, Visvāvasus Citraketu, Sveta, Citrāṅgada, Nārada, Tumburu, Hā Hā Hū Hū and other Gandarbhas, the twin Aśvins, the eight Vasus, Sādhyas, Siddhas, the Pitris, Ananta and other Nāgas, Kinnaras, Uragas, Rāksasas, the abode of Vaikuṇṭha, the abode of Brahmā, Kailaśa mountain, the best of all mountains; all were existing there. Within that nail of the toe were, reflected all the things of the Universe.