Sanskrit Text
३.३ तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।
ब्रह्मोवाच ।
विमानं तन्मनोवेगं यत्र स्थानान्तरे गतम् ।
न जलं तत्र पश्यामो विस्मिताः स्मो वयं तदा ॥ १ ॥
वृक्षाः सर्वफला रम्याः कोकिलारावमण्डिताः ।
मही महीधराः कामं वनान्युपवनानि च ॥ २ ॥
English Translation
Brahmā said :-- “We were very much astonished not to find water where our beautiful aeroplane landed us. We saw earth resonated with the sweet cooings of the cuckoos, filled with beautiful fruit-laden trees, forests and gardens.