Sanskrit Text
१.१९ एकोनविंशोऽध्यायः । शुकस्य विवाहादिकार्यवर्णनम् ।
शुक उवाच ।
सन्देहोऽयं महाराज वर्तते हृदये मम ।
मायामध्ये वर्तमानः स कथं निःस्पृहो भवेत् ॥ १ ॥
शास्त्रज्ञानं च सम्प्राप्य नित्यानित्यविचारणम् ।
त्यजते न मनो मोहं स कथं मुच्यते नरः ॥ २ ॥
English Translation
When even by the acquiring of wisdom of the Śāstras and the capability to judge which is real and which is unreal, the delusion of the mind is not dispelled until one resorts to the practice of Yoga, how then can freedom from desires and liberation come to a householder?