Sanskrit Text
१.१८ अष्टादशोऽध्यायः । जनकोपदेशवर्णनम् ।
सूत उवाच ।
श्रुत्वा तमागतं राजा मन्त्रिभिः सहितः शुचिः ।
पुरः पुरोहितं कृत्वा गुरुपुत्रं समभ्यगात् ॥ १ ॥
कृत्वार्हणां नृपः सम्यग्दत्तासनमनुत्तमम् ।
पप्रच्छ कुशलं गां च विनिवेद्य पयस्विनीम् ॥ २ ॥
स च तां नृपपूजां वै प्रत्यगृह्णाद्यथाविधि ।
पप्रच्छ कुशलं राज्ञे स्वं निवेद्य निरामयम् ॥ ३ ॥
English Translation
Sūta said :-- Mahārṣis! When the king Janaka heard of the arrival of Śūka Deva, the son of his Guru, he took his priest before him and attended by his ministers came before him in pure spirit. Then he duly worshipped Śūka, offering him Pādya, Arghya and an excellent seat, and a cow, yielding milk and then enquired about his welfare.