Śrīmad Devī Bhāgavatam

BOOK 1 • CHAPTER 3
Ch 3 Verse 1 Verse
१.३ तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् । सूत उवाच । श‍ृण्वन्तु सम्प्रवक्ष्यामि पुराणानि मुनीश्वराः । यथाश्रुतानि तत्त्वेन व्यासात्सत्यवतीसुतात् ॥ १ ॥
Sūta said :-- “O best of the Munis! I am now telling you the names of the Purāṇas, etc., exactly as 1 have heard from Veda Vyāsa, the son of Satyavati; listen.
Ch 3 Verse 2 Verse
मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् । अनापलिङ्गकूस्कानि पुराणानि पृथक्पृथक् ॥ २ ॥
The Purāṇa beginning with "ma" are two in number; those beginning with “bha” are two; those beginning with “bra" are three; those beginning with "va” are four; those beginning respectively with “A”, “na”, “pa”, “Ling”, “ga”, “kū” and “Ska” are one each and “ma” means Matsya Purāna, Mārkandeya Purāna; “Bha” signifies Bhaviṣya, Bhāgavat Purāṇas; “Bra” signifies Brahmā, Brahmāṇḍa and Brahmāvaivarta Purāṇas; “va” signifies Vāman, Vayu, Viṣṇu and Varaha Purāṇas; “A” signifies Agni Purāṇa; “Na” signifies Narada Purāna; “Pa” signifies Padma Purāna; “Ling” signifies Liṅga Purānam; “Ga” signifies Govinda Purāṇam; Kū signifies Kurma Purāna and “Ska” signifies Skanda Purānam. These are the eighteen Purāṇas.
Ch 3 Verse 3-4 Verse
चतुर्दशसहस्रं च मत्स्यमाद्यं प्रकीर्तितम् । तथा ग्रहसहस्रं तु मार्कण्डेयं महाद्भुतम् ॥ ३ ॥ चतुर्दशसहस्राणि तथा पञ्चशतानि च । भविष्यं परिसङ्ख्यातं मुनिभिस्तत्त्वदर्शिभिः ॥ ४ ॥
O Saunaka! In the Matsya Purāṇa there are fourteen thousand slokas; in the wonderfully varied Markandeya Purānam there are nine thousand slokas. In the Bhavisya Purāṇa fourteen thousand and five hundred slokas are counted by the Munis, the seers of truth.
Ch 3 Verse 5 Verse
अष्टादशसहस्रं वै पुण्यं भागवतं किल । तथा चायुतसङ्ख्याकं पुराणं ब्रह्मसंज्ञकम् ॥ ५ ॥
In the holy Bhāgavata there are eighteen thousand Ślokas; in the Brahmā Purāṇa there are Ajuta (ten thousand) Ślokas.
Ch 3 Verse 6 Verse
द्वादशैव सहस्राणि ब्रह्माण्डं च शताधिकम् । तथाष्टादशसाहस्रं ब्रह्मवैवर्तमेव च ॥ ६ ॥
In the Brahmāṇḍa Purāṇa there are twelve thousand one hundred Ślokas; in the Brahmā Vaivarta Purāṇam there are eighteen thousand Ślokas.
Ch 3 Verse 7-12 Verse
अयुतं वामनाख्यं च वायव्यं षट्शतानि च । चतुर्विंशतिसङ्ख्यातः सहस्राणि तु शौनक ॥ ७ ॥ त्रयोविंशतिसाहस्रं वैष्णवं परमाद्भुतम् । चतुर्विंशतिसाहस्रं वाराहं परमाद्भुतम् ॥ ८ ॥ षोडशैव सहस्राणि पुराणं चाग्निसंज्ञितम् । पञ्चविंशतिसाहस्रं नारदं परमं मतम् ॥ ९ ॥ पञ्चपञ्चाशत्साहस्रं पद्माख्यं विपुलं मतम् । एकादशसहस्राणि लिङ्गाख्यं चातिविस्मृतम् ॥ १० ॥ एकोनविंशत्साहस्रं गारुडं हरिभाषितम् । सप्तदशसहस्रं च पुराणं कूर्मभाषितम् ॥ ११ ॥ एकाशीतिसहस्राणि स्कन्दाख्यं परमाद्भुतम् । पुराणाख्या च सङ्ख्या च विस्तरेण मयानघाः ॥ १२ ॥
In the Vaman Purāṇa there are Ajuta (ten thousand) Ślokas; in the Vayu Purāṇam there are twenty-four thousand and six hundred Ślokas; in the greatly wonderful Viṣṇu Purāna there are twenty-three thousand Ślokas; in the Agni Purāṇam there are sixteen thousand Ślokas; in the Brihat Narada Purāṇam, there are twenty-five thousand Ślokas, in the big Padma Purāṇa there are fifty-five thousand ślokas; in the voluminous Liṅga Purāṇa eleven thousand ślokas exist; in the Garuḍa Purāṇam spoken by Hari nineteen thousand ślokas exist; iu the Kurma Purāṇa, seventeen thousand ślokas exist and in the greatly wonderful Skanda Purāṇa there are eighty-one thousand ślokas, O sinless Ṛṣis! Thus I have described to you the names of all the Purāṇas and the number of verses contained in them. Now hear about the Upa Purāṇas.
Ch 3 Verse 13-16 Verse
तथैवोपपुराणानि श‍ृण्वन्तु ऋषिसत्तमाः । सनत्कुमारं प्रथमं नारसिंहं ततः परम् ॥ १३ ॥ नारदीयं शिवं चैव दौर्वाससमनुत्तमम् । कापिलं मानवं चैव तथा चौशनसं स्मृतम् ॥ १४ ॥ वारुणं कालिकाख्यं च साम्बं नन्दिकृतं शुभम् । सौरं पाराशरप्रोक्तमादित्यं चातिविस्तरम् ॥ १५ ॥ माहेश्वरं भागवतं वासिष्ठं च सविस्तरम् । एतान्युपपुराणानि कथितानि महात्मभिः ॥ १६ ॥
The first is the Upapurāṇa narrated by Sanat Kumāra; next comes Narasimha Purāṇa; then Naradiya Purāṇa, Śiva Purāṇa, Purāṇa narrated by Durvasa, Kapila Purāṇa, Manava Purāṇa, Auśanasa Purāṇa, Varuṇa Purāṇa. Kalika Purāṇa, Samva Purāṇa, Nandi Keśwara Purāṇa, Saura Purāṇa, Purāṇa spoken by Parāśara, Āditya Purāṇa, Mahesvara Purāṇa, Bhāgavata and Vasiṣṭha Purāṇa. These Upa Purāṇas are described by the Mahatmas.
Ch 3 Verse 17 Verse
अष्टादश पुराणानि कृत्वा सत्यवतीसुतः । भारताख्यानमतुलं चक्रे तदुपबृंहितम् ॥ १७ ॥
After compiling the eighteen Purāṇas, Veda Vyāsa, the son of Satyavati composed Mahabharata, that has no rival, out of these Purāṇas.
Ch 3 Verse 18 Verse
मन्वन्तरेषु सर्वेषु द्वापरे द्वापरे युगे । प्रादुःकरोति धर्मार्थी पुराणानि यथाविधि ॥ १८ ॥
At every Manvantara, in each Dvāpara Yuga, Veda Vyāsa expounds the Purāṇas duly to preserve the religion.
Ch 3 Verse 19 Verse
द्वापरे द्वापरे विष्ण्णुर्व्यासरूपेण सर्वदा । वेदमेकं स बहुधा कुरुते हितकाम्यया ॥ १९ ॥
Veda Vyāsa is no other person than Viṣṇu Himself; He, in the form of Veda Vyāsa, divides the (one) Veda into four parts, in every Dvāpara Yuga, for the good of the world.
Ch 3 Verse 20 Verse
अल्पायुषोऽल्पबुद्धींश्च विप्रान्ज्ञात्वा कलावथ । पुराणसंहितां पुण्यां कुरुतेऽसौ युगे युगे ॥ २० ॥
The Brahmāṇas of the Kali age are shortlived and their intellect (Buddhi) is not sharp; they cannot realise the meaning after studying the Vedas; knowing this in every Dvāpara Yuga Bhagavān expounds the holy Purāṇa Samhitas.
Ch 3 Verse 21 Verse
स्त्रीशूद्रद्विजबन्धूनां न वेदश्रवणं मतम् । तेषामेव हितार्थाय पुराणानि कृतानि च ॥ २१ ॥
The more so because women, Śudras, and the lower Dvijas are not entitled to hear the Vedas; for their good, the Purāṇas have been composed.
Ch 3 Verse 22-23 Verse
मन्वन्तरे सप्तमेऽत्र शुभे वैवस्वताभिधे । अष्टाविंशतिमे प्राप्ते द्वापरे मुनिसत्तमाः ॥ २२ ॥ व्यासः सत्यवतीसूनुर्गुरुर्मे धर्मवित्तमः । एकोनत्रिंशत्सम्प्राप्ते द्रौणिर्व्यासो भविष्यति ॥ २३ ॥
Tne present auspicious Manvantara is Vaivasvata; it is the seventh in due order; and the son of Satyavati, the best of the knowers of Dharma, is the Veda Vyāsa of the 28th Dvāpara Yuga of this seventh Manvantara. He is my Guru; in the next Dvāpara, Yuga Asvatthama, the son of Drona will be the Veda Vyāsa.
Ch 3 Verse 24 Verse
अतीतास्तु तथा व्यासाः सप्तविंशतिरेव च । पुराणसंहितास्तैस्तु कथितास्तु युगे युगे ॥ २४ ॥
Twenty-seven Veda Vyāsas had expired and they duly compiled each their own Purāna Samhitas in their own Dvāpara Yugas.
Ch 3 Verse 25 Verse
ऋषय ऊचुः । ब्रूहि सूत महाभाग व्यासाः पूर्वयुगोद्भवाः । वक्तारस्तु पुराणानां द्वापरे द्वापरे युगे ॥ २५ ॥
The Ṛṣis said :-- “O highly fortunate Sūta! kindly describe to us the names of the previous Veda Vyāsas, the reciters of the Purāṇas in the Dvāpara Yugas.
Ch 3 Verse 26-28 Verse
सूत उवाच । द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयम्भुवा । प्रजापतिर्द्वितीये तु द्वापरे व्यासकार्यकृत् ॥ २६ ॥ तृतीये चोशना व्यासश्चतुर्थे तु बृहस्पतिः । पञ्चमे सविता व्यासः षष्ठे मृत्युस्तथापरे ॥ २७ ॥ मघवा सप्तमे प्राप्ते वसिष्ठस्त्वष्टमे स्मृतः । सारस्वतस्तु नवमे त्रिधामा दशमे तथा ॥ २८ ॥
Sūta said :-- In the first Dvāpara, Brahmā Himself divided the Vedas; in the second Dvāpara, the first Prajapati Vyāsa did the same; so Śakra, in the third, Brihaspati, in the fourth, Surya in the fifth; Yama, in the sixth, Indra, in the seventh, Vasiṣṭha, in the eighth; Sarasvata Ṛṣi in the ninth, Tridhama, in the tenth;
Ch 3 Verse 29-31 Verse
एकादशेऽथ त्रिवृषो भरद्वाजस्ततः परम् । त्रयोदशे चान्तरिक्षो धर्मश्चापि चतुर्दशे ॥ २९ ॥ त्रय्यारुणिः पञ्चदशे षोडशे तु धनञ्जयः । मेधातिथिः सप्तदशे व्रती ह्यष्टादशे तथा ॥ ३० ॥ अत्रिरेकोनविंशेऽथ गौतमस्तु ततः परम् । उत्तमश्चैकविंशेऽथ हर्यात्मा परिकीर्तितः ॥ ३१ ॥
Trivṛṣa, in the eleventh, Bharadvāja, in the twelfth; Antariksa, in the thirteenth; Dharma, in the fourteenth; Evaruni in the fifteenth; Dhanañjaya, in the sixteenth; Medhatithi in tba seventeenth; Vrati, in the eighteenth; Atri, in the nineteenth; Gautama in the twentieth, Uttama, whose soul was fixed on Hari, in the twenty-first,
Ch 3 Verse 32-33 Verse
वेनो वाजश्रवाश्चैव सोमोऽमुष्यायणस्तथा । तृणबिन्दुस्तथा व्यासो भार्गवस्तु ततः परम् ॥ ३२ ॥ ततः शक्तिर्जातुकर्ण्यः कृष्णद्वैपायनस्ततः । अष्टाविंशतिसङ्ख्येयं कथिता या मया श्रुता ॥ ३३ ॥
Vājasravā Vena, in the twenty second; his family descendant Soma iu the twenty-third; Trinaviṇdu, in the twenty-fourth; Bhārgava, in the twenty-fifth; Sakti, in the twenty-sixth, Jātūkarṇya in the twenty-seventh and Kṛṣṇa Dvaipāyana became the twenty-eighth Veda Vyās in the Dvāpara Yugas.
Ch 3 Verse 34 Verse
कृष्णद्वैपायनात्प्रोक्तं पुराणं च मया श्रुतम् । श्रीमद्भागवतं पुण्यं सर्वदुःखौघनाशनम् ॥ ३४ ॥
Thus I have spoken of the 28 Veda Vyāsas, as I heard. I have heard the holy Śrimad Bhāgavat from the mouth of Kṛṣṇa Dvaipayana.
Ch 3 Verse 35 Verse
कामदं मोक्षदं चैव वेदार्थपरिबृंहितम् । सर्वागमरसारामं मुमुक्षूणां सदा प्रियम् ॥ ३५ ॥
This removes all troubles, yields all desires, and gives Moksa and is full of the meanings of the Vedas. This treatise contains the essence of all the Śastras and is dear always to the Mamuksas (those who want Moksa or liberation).
Ch 3 Verse 36-44 Verse
व्यासेन कृत्वातिशुभं पुराणं शुकाय पुत्राय महात्मने यत् । वैराग्ययुक्ताय च पाठितं वै विज्ञाय चैवारणिसम्भवाय ॥ ३६ ॥ श्रुतं मया तत्र तथा गृहीतं यथार्थवद्व्यासमुखान्मुनीन्द्राः । पुराणगुह्यं सकलं समेतं गुरोः प्रसादात्करुणानिधेश्च ॥ ३७ ॥ सूतेन पृष्टः सकलं जगाद द्वैपायनस्तत्र पुराणगुह्यम् । अयोनिजेनाद्भुतबुद्धिना वै श्रुतं मया तत्र महाप्रभावम् ॥ ३८ ॥ श्रीमद्भागवतामराङ्घ्रिपफलास्वादादरः सत्तमाः संसारार्णवदुर्विगाह्यसलिलं सन्तर्तुकामः शुकः । नानाख्यानरसालयं श्रुतिपुटैः प्रेम्णाश‍ृणोदद्भुतं तच्छ्रुत्वा न विमुच्यते कलिभयादेवंविधः कः क्षितौ ॥ ३९ ॥ पापीयानपि वेदधर्मरहितः स्वाचारहीनाशयो ॥ व्याजेनापि श‍ृणोति यः परमिदं श्रीमत्पुराणोत्तमम् । भुक्त्या भोगकलापमत्र विपुलं देहावसानेऽचलं योगिप्राप्यमवाप्नुयाद्भगवतीनामाङ्कितं सुन्दरम् ॥ ४० ॥ या निर्गुणा हरिहरादिभिरप्यलभ्या विद्या सतां प्रियतमाथ समाधिगम्या । सा तस्य चित्तकुहरे प्रकरोति भावं यः संश‍ृणोति सततं तु सतीपुराणम् ॥ ४१ ॥ सम्प्राप्य मानुषभवं सकलाङ्गयुक्तं पोतं भवार्णवजलोत्तरणाय कामम् । सम्प्राप्य वाचकमहो न श‍ृणोति मूढः स वञ्चितोऽत्र विधिना सुखदं पुराणम् ॥ ४२ ॥ यः प्राप्य कर्णयुगलं पटुमानुषत्वे रागी श‍ृणोति सततं च परापवादान् । सर्वार्थदं रसनिधिं विमलं पुराणं नष्टः कुतो न श‍ृणुते भुवि मन्दबुद्धिः ॥ ४३ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनं नाम तृतीयोऽध्यायः ॥ १.३॥
O best Munis! Thus, compiling the Purāṇas Veda Vyāsa thought this Purāṇa to be the best; so (without teaching it to other persons) he settled that his own son the high-sould Śuka Deva born of the dry woods used for kindling fire (excited by attrition), having no passion for the worldly things, would be the fit student to be taught this Purāṇa and therefore taught him; at that time I was a fellow student along with Śaka Deva and I heard every thing from the mouth of Vyāsa Deva and realised th« secret meanings thereof. This has happened through the grace of the merciful Guru Veda Vyāsa. Here ends the Third Chapter of Śrimad Devi Bhāgavatam on praising the Purāṇas and on each Vyāsa of every Dvāpara Yuga.