Sanskrit Text
१२.१२ द्वादशोऽध्यायः । मणिद्वीपवर्णनम् ।
व्यास उवाच ।
तदेव देवीसदनं मध्यभागे विराजते ।
सहस्रस्तम्भसंयुक्ताश्चत्वारस्तेषु मण्डपाः ॥ १ ॥
शृङ्गारमण्डपश्चैको मुक्तिमण्डप एव च ।
ज्ञानमण्डपसंज्ञस्तु तृतीयः परिकीर्तितः ॥ २ ॥
एकान्तमण्डपश्चैव चतुर्थः परिकीर्तितः ।
नानावितानसंयुक्ता नानाधूपैस्तु धूपिताः ॥ ३ ॥
English Translation
Vyāsa said :-- O King Janamejaya! The Ratnagriha, above mentioned, is the Central, the Chief and the Crowning Place of Mūla Prakriti. [The nine jewels are :-- (1) Muktā, (2) Māṇikya, (3) Vaidūrya, (4) Gomeda, (5) Vajra, (6) Vidruma, (7) Padmarāga, (8) Marakata, and (9) Nīla.] This is situated in the centre of all the enclosures. Within this there are the four Maṇḍapas, i.e., halls built of one thousand (i.e., innumerable) pillars. These are the Śriṅgāra Maṇḍapa, Mukti Maṇḍapa, Jñāna Maṇḍapa and Ekānta Maṇḍapa; on the top there are canopies of various colours; within are many scented articles scented by the Dhūpas, etc.