Sanskrit Text
पनसा बकुला लोध्राः कर्णिकाराश्च शिंशपाः ।
देवदारुकाञ्चनारा आम्राश्चैव सुमेरवः ॥ २१ ॥
लिकुचा हिङ्गुलाश्चैला लवङ्गाः कट्फलास्तथा ।
पाटला मुचुकुन्दाश्च फलिन्यो जघनेफलाः ॥ २२ ॥
तालास्तमालाः सालाश्च कङ्कोला नागभद्रकाः ।
पुन्नागाः पीलवः साल्वका वै कर्पूरशाखिनः ॥ २३ ॥
अश्वकर्णा हस्तिकर्णास्तालपर्णाश्च दाडिमाः ।
गणिका बन्धुजीवाश्च जम्बीराश्च कुरण्डकाः ॥ २४ ॥
चाम्पेया बन्धुजीवाश्च तथा वै कनकद्रुमाः ।
कालागुरुद्रुमाश्चैव तथा चन्दनपादपाः ॥ २५ ॥
खर्जूरा यूथिकास्तालपर्ण्यश्चैव तथेक्षवः ।
क्षीरवृक्षाश्च खदिराश्चिञ्जाभल्लातकास्तथा ॥ २६ ॥
रुचकाः कुटजा वृक्षा बिल्ववृक्षास्तथैव च ।
तुलसीनां वनान्येवं मल्लिकानां तथैव च ॥ २७ ॥
English Translation
O King! Now hear, in brief, the names of some of the trees that are found in abundance there :-- Panasa, Vakula, Lodhra, Karṇikāra, Śinśapa, Deodāra, Kāñcanāra, mango, Sumeru, Likuca, Hingula, Elā, Labanga, Kaṭ fruit tree, Pāṭala, Muchukunda, Tāla, Tamāla, Sāla, Kankola, Nāgabhadra, Punnāga, Pīlu, Sālvaka, Karpūra, Aśvakarṇa, Hastikarṇa, Tālaparṇa, Pomegranate, Gaṇikā, Bandhujīva, Jamvīra, Kuraṇḍaka, Cāmpeya, Bandhujīva, Kanakavṛkṣa, Kālāguru (usually coiled all over with cobras, very black poisonous snakes), Sandaltree, Datetree,Yūthikā, Tālaparṇī, Sugarcane, Kṣīra-tree, Khadira, Bhallātaka, Rucaka, Kuṭaja, Bel tree and others, the Talasī and Mallikā and other forest plants.