Sanskrit Text
११.१४ चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।
श्रीनारायण उवाच ।
भस्मदिग्धशरीराय यो ददाति धनं मुदा ।
तस्य सर्वाणि पापानि विनश्यन्ति न संशयः ॥ १ ॥
श्रुतयः स्मृतयः सर्वाः पुराणान्यखिलान्यपि ।
वदन्ति भूतिमाहाम्यं तत्तस्माद्धारयेद्द्विजः ॥ २ ॥
English Translation
Nārāyaṇa said :-- O Nārada! Whatever is given as charities to any man besmeared with the holy ashes, takes away instantly all the sins of the donor. The Śrutis, Smritis, and all the Purāṇas declare the greatness of this Bhasma. So the twice-born must accept this.