Sanskrit Text
१०.७ सप्तमोऽध्यायः । विन्ध्यवृद्ध्यवरोधवर्णनम् ।
सूत उवाच ।
इति वाक्यं समाकर्ण्य विबुधानां द्विजोत्तमः ।
करिष्ये कार्यमेतद्वः प्रत्युवाच ततो मुनिः ॥ १ ॥
अङ्गीकृते तदा कार्ये मुनिना कुम्भजन्मना ।
देवाः प्रमुदिताः सर्वे बभूबुर्द्विजसत्तमाः ॥ २ ॥
English Translation
Sūta said :-- Hearing the words of the Devas, Agastya, the Best of the Brāhmins promised that he would carry out their works. O Ṛṣis! All the Devas then became very glad when the Muni, born of the water jar, promised thus.