Sanskrit Text
१०.३ तृतीयोऽध्यायः । देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् ।
सूत उवाच ।
एवं समुपदिश्यायं देवर्षिः परमः स्वराट् ।
जगाम ब्रह्मणो लोकं स्वैरचारी महामुनिः ॥ १ ॥
गते मुनिवरे विन्ध्यश्चिन्तां लेभेऽनपायिनीम् ।
नैव शान्तिं स लेभे च सदान्तःकृतशोचनः ॥ २ ॥
English Translation
Sūta said :-- O Ṛṣis! Thus advising, the Devarṣi, the great Jñanī and Muni going wherever he likes, went to the Brahmaloka. After the Muni had gone, the Bindhya became immersed in great anxiety and becoming always very sorrowful, could not get peace.