Sanskrit Text
९.४७ सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्र यथाऽऽगमम् ।
देवी मङ्गलचण्डी च तदाख्यानं निशामय ॥ १ ॥
तस्याः पूजादिकं सर्वं धर्मवक्त्रेण यच्छ्रुतम् ।
श्रुतिसम्मतमेवेष्टं सर्वेषां विदुषामपि ॥ २ ॥
English Translation
Nārāyaṇa said :-- O Nārada! I have now narrated the anecdote of Ṣaṣṭhī as stated in the Vedas. Now hear the anecdote of Mangala Caṇḍī, approved of by the Vedas and respected by the literary persons. The Caṇḍī, that is very skilled in all auspicious works and who is the most auspicious of all good things, is Mangal Caṇḍīkā.