Sanskrit Text
वह्निकुण्डं तप्तकुण्डं क्षारकुण्डं भयानकम् ।
विट्कुण्डं मूत्रकुण्डं च श्लेष्मकुण्डं च दुःसहम् ॥ ८ ॥
गरकुण्डं दूषिकुण्डं वसाकुण्डं तथैव च ।
शुक्रकुण्डमसुक्कुण्डमश्रुकुण्डं च कुत्सितम् ॥ ९ ॥
कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च ।
मज्जाकुण्डं मांसकुण्डं नक्रकुण्डं च दुस्तरम् ॥ १० ॥
लोमकुण्डं केशकुण्डमस्थिकुण्डं च दुस्तरम् ।
ताम्रकुण्डं लोहकुण्डं प्रतप्तं क्लेशदं महत् ॥ ११ ॥
चर्मकुण्डं तप्तसुराकुण्डं च परिकीर्तितम् ।
तीक्ष्णकण्टककुण्डं च विषोदं विषकुण्डकम् ॥ १२ ॥
प्रतप्तकुण्डं तैलस्य कुन्तकुण्डं च दुर्वहम् ।
कृमिकुण्डं पूयकुण्डं सर्पकुण्डं दुरन्तकम् ॥ १३ ॥
मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम् ।
कुण्डं च वज्रदंष्ट्राणां वृश्चिकानां च सुव्रते ॥ १४ ॥
शरकुण्डं शूलकुण्डं खड्गकुण्डं च भीषणम् ।
गोलकुण्डं नक्रकुण्डं काककुण्डं शुचास्पदम् ॥ १५ ॥
मन्थानकुण्डं बीजकुण्डं वज्रकुण्डं च दुःसहम् ।
तप्तपाषाणकुण्डं च तीक्ष्णपाषाणकुण्डकम् ॥ १६ ॥
लालाकुण्डं मसीकुण्डं चूर्णकुण्डं तथैव च ।
चक्रकुण्डं वक्रकुण्डं कूर्मकुण्डं महोल्बणम् ॥ १७ ॥
English Translation
:-- Vahni Kuṇḍa, Tapta Kuṇḍa, Kṣāra Kuṇḍa, Bhayānaka Kuṇḍa, Viṭ Kuṇḍa, Mūtra Kuṇḍa, Śleṣma Kuṇḍa, Gara Kuṇḍa, Dūṣikā Kuṇḍa, Vasā Kuṇḍa, Śukra Kuṇḍa, Śoṇita Kuṇḍa, Aśrū Kuṇḍa, Gātramala Kuṇḍa, Karṇamala Kuṇḍa, Majjā Kuṇḍa, Māmsa Kuṇḍa, impassable Nakra Kuṇḍa, Loma Kuṇḍa, Keśa Kuṇḍa, impassable Asthi Kuṇḍa, Tāmra Kuṇḍa, the exceedingly hot and painful Lauha Kuṇḍa (the pit of molten iron), Carma Kuṇḍa, the hot Surā Kuṇḍa, sharp Thorny Kuṇḍa, Viṣa Kuṇḍa, the hot Taila Kuṇḍa, very heavy Astra Kuṇḍa, Krimi Kuṇḍa, Pūya Kuṇḍa, terrible Sarpa Kuṇḍa, Maśaka Kuṇḍa, Daṃśa Kuṇḍa, dreadful Garala Kuṇḍa, Vajra Daṃṣṭra Vriścika Kuṇḍa, Śara Kuṇḍa, Sūla Kuṇḍa, awful Khaḍga Kuṇḍa, Gola Kuṇḍa, Nakra Kuṇḍa, sorrowful Kāka Kuṇḍa, Manthāna Kuṇḍa, Vīja Kuṇḍa, painful Vajra Kuṇḍa, hot Pātśāṇa Kuṇḍa, sharp Pāśāṇa Kuṇḍa, Lālā Kuṇḍa, Masī Kuṇḍa, Cakra Kuṇḍa, Vakra Kuṇḍa, very terrible Kurma Kuṇḍa, Jvālā Kuṇḍa, Bhasma Kuṇḍa, Dagdha Kuṇḍa, and others.