Sanskrit Text
स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा ।
भास्करो युयुधे विप्रचित्तिना सह सत्वरः ॥ ३ ॥
दम्भेन सह चन्द्रश्च चकार परमं रणम् ।
कालस्वरेण कालश्च गोकर्णेन हुताशनः ॥ ४ ॥
कुबेरः कालकेयेन विश्वकर्मा मयेन च ।
भयङ्करेण मृत्युश्च संहारेण यमस्तथा ॥ ५ ॥
विकङ्कणेन वरुणश्चञ्चलेन समीरणः ।
बुधश्च घृतपृष्ठेन रक्ताक्षेण शनैश्चरः ॥ ६ ॥
जयन्तो रत्नसारेण वसवो वर्चसां गणैः ।
अश्विनौ च दीप्तिमता धूम्रेण नलकूबरः ॥ ७ ॥
धुरन्धरेण धर्मश्च उषाक्षेण च मङ्गलः ।
शोभाकरेण वै भानुः पिठरेण च मन्मथः ॥ ८ ॥
गोधामुखेन चूर्णेन खड्गेन च ध्वजेन च ।
काञ्चीमुखेन पिण्डेन धूमेण सह नन्दिना ॥ ९ ॥
विश्वेन च पलाशेनादित्याद्या युयुधुः परे ।
एकादश च रुद्रा वै एकादशभयङ्करैः ॥ १० ॥
महामारी च युयुधे चोग्रचण्डादिभिः सह ।
नन्दीश्वरादयः सर्वे दानवानां गणैः सह ॥ ११ ॥
English Translation
Terrible fight then ensued between Mahendra and Vṛṣaparvā, Bhāskara and Viprachitti, Niśākara and Dambha, between Kāla and Kāleśvara, between Fire and Gokarṇa, Kuvera and Kālakeya, between Viśvakarmā and Māyā, between Mrityu and Bhayamkar, between Yama and Samhāra, between Varuṇa and Vikamka, between Budha and Dhritapṛṣṭha, between Śani and Raktākṣa, Jayanta and Ratnasāra, between the Vasus and Varchasas, between the two Aśvin Kumāras and Dīptimān, between Nalakūbara and Dhūmra, between Dharma and Dhurandhara, between Mangala and Uṣākṣa, Bhānu and Śovākara, between Kandarpa and Pīṭhara, between the eleven Ādityas and Godhāmukha, Cūrṇa and Khaḍgadhvaja, Kañchīmukha and Piṇḍa, Dhūmra and Nandī, between Viśva and Palāśa, between the eleven Rudras and the eleven Bhayamkaras, between Ugracaṇḍā and the other Mahāmārīs and Nandīśvara and the other Dānavas.