Sanskrit Text
९.२० विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।
श्रीनारायण उवाच ।
ब्रह्मा शिवं सन्नियोज्य संहारे दानवस्य च ।
जगाम स्वालयं तूर्णं यथास्थानं सुरोत्तमाः ॥ १ ॥
चन्द्रभागानदीतीरे वटमूले मनोहरे ।
तत्र तस्थौ महादेवो देवविस्तारहेतवे ॥ २ ॥
English Translation
Nārāyaṇa said :-- Brahmā, then putting Śiva to the task of killing Śaṅkhacūḍa went to His own abode. The other Devas returned to their homes. Here under the beautiful Baṭa tree, on the banks of the river Candrabhāgā, Mahādeva pitched His big tent and encamped