Sanskrit Text
९.१६ षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।
श्रीनारायण उवाच ।
लक्ष्मीं तौ च समाराध्य चोग्रेण तपसा मुने ।
वरमिष्टं च प्रत्येकं सम्प्रापतुरभीप्सितम् ॥ १ ॥
महालक्ष्मीवरेणैव तौ पृथ्वीशौ बभूवतुः ।
पुण्यवन्तौ पुत्रवन्तौ धर्मध्वजकुशध्वजौ ॥ २ ॥
English Translation
Śrī Nārāyaṇa said :-- O Muni! Dharmadhvaja and Kuśadhvaja practised severe tapasyās and worshipped Lakṣmī. They then got separately their desired boons. By the boon of Mahā Lakṣmī, they became again the rulers of the earth.