Sanskrit Text
९.१४ चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।
नारद उवाच ।
लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी ।
एता नारायणस्यैव चतस्रश्च प्रिया इति ॥ १ ॥
गङ्गा जगाम वैकुण्ठमिदमेव श्रुतं मया ।
कथं सा तस्य पत्नी च बभूवेति च न श्रुतम् ॥ २ ॥
English Translation
Nārada said :-- O Lord! Gaṅgā, Lakṣmī, Sarasvatī, and the world purifying Tulasī, these four, are dearest to Nārāyaṇa. Out of these, Gaṅgā went from the region of Goloka to Vaikuṇṭha. So I have heard. But how did She come to be the wife of Nārāyaṇa. I have not heard. Kindly describe this.