Sanskrit Text
८.१८ अष्टादशोऽध्यायः । राहुमण्डलाद्यवस्थानवर्णनम् ।
श्रीनारायण उवाच ।
अधस्तात्सवितुः प्रोक्तमयुतं राहुमण्डलम् ।
नक्षत्रवच्चरति च सैंहिकेयोऽतदर्हणः ॥ १ ॥
सूर्याचन्द्रमसोरेव मर्दनः सिंहिकासुतः ।
अमरत्वं च खेटत्वं लेभे यो विष्ण्वनुग्रहात् ॥ २ ॥
English Translation
Nārāyaṇa said :-- O Devarṣi! The Sphere of Rāhu (the ascending node) is situated one Ayuta Yoyanas below the Sun. Rāhu, the son of Simhikā is moving there like a Nakṣattra. This Rāhu swallows up both the Sun and the Moon and He has got immortality and capability to travel in the sky.