Sanskrit Text
८.१ प्रथमोऽध्यायः । भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् ।
जनमेजय उवाच ।
सूर्यचन्द्रान्वयोत्थानां नृपाणां सत्कथाश्रितम् ।
चरितं भवता प्रोक्तं श्रुतं तदमृतास्पदम् ॥ १ ॥
अधुना श्रोतुमिच्छामि सा देवी जगदम्बिका ।
मन्वन्तरेषु सर्वेषु यद्यद्रूपेण पूज्यते ॥ २ ॥
English Translation
Janamajeya asked :-- “O Lord! I have heard all that you have described about the sweet nectar-like characters of the Kings of the Solar and the Lunar dynasties. Now kindly describe the real Tattva of the Virāṭ Form of the Great Devī and how She was worshipped in every Manvantara by the Regent of that Manvantara and the Kings thereof.