Sanskrit Text
कातरा तत्र सञ्जाता भार्या वै कौशिकस्य ह ।
कुटुम्बभरणार्थाय दुःखिता वरवर्णिनी ॥ २५ ॥
बालकान्क्षुधयाक्रान्तान्रुदतः पश्यती भृशम् ।
याचमानांश्च नीवारान्कष्टमाप पतिव्रता ॥ २६ ॥
चिन्तयामास दुःखार्ता तोकान्वीक्ष्य क्षुधातुरान् ।
नृपो नास्ति पुरे ह्यद्य कं याचे वा करोमि किम् ॥ २७ ॥
न मे त्रातास्ति पुत्राणां पतिर्मे नास्ति सन्निधौ ।
रुदन्ति बालकाः कामं धिङ्मे जीवनमद्य वै ॥ २८ ॥
धनहीनां च मां त्यक्त्वा तपस्तप्तुं गतः पतिः ।
न जानाति समर्थोऽपि दुःखितां धनवर्जिताम् ॥ २९ ॥
English Translation
The beautiful wife of Kuśika then fell into great trouble how she could maintain the family. All the children, pained with hunger, began to cry, begging for Nibār rice food. The chaste wife of Kauśika became very much troubled seeing all this. She thought, seeing the children hungry, “Where am I to go now and from whom to beg, and what to do, inasmuch as the King was not then staying in the Kingdom.