Sanskrit Text
७.४ चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।
व्यास उवाच -
गते राजनि सा बाला पतिसेवापरायणा ।
बभूव च तथाग्नीनां सेवने धर्मतत्परा ॥ १ ॥
English Translation
Vyāsa said :-- O King! When the King Śaryati departed, that virtuous lady devoted her time in serving her husband, and the Fire.