Sanskrit Text
६.१४ चतुर्दशोऽध्यायः । वसिष्ठस्य मैत्रावरुणिरितिनामवर्णनम् ।
जनमेजय उवाच ।
मैत्रावरुणिरित्युक्तं नाम तस्य मुनेः कथम् ।
वसिष्ठस्य महाभाग ब्रह्मणस्तनुजस्य ह ॥ १ ॥
किमसौ कर्मतो नाम प्राप्तवान् गुणतस्तथा ।
ब्रूहि मे वदतांश्रेष्ठ कारणं तस्य नामजम् ॥ २ ॥
English Translation
Janamejaya said :-- “O Bhagavān! Maharṣi Vaśiṣṭha was the mind-born son of Brahmā; how is it then that you have named him as Maitrā-Vāruṇī. Is it that he got this name by some action or by some Guṇas? Kindly tell me the origin of this name, O Best of speakers!”