Sanskrit Text
६.१२ द्वादशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् ।
राजोवाच ।
तीर्थानि भुवि पुण्यानि ब्रूहि मे मुनिसत्तम ।
गम्यानि मानवैर्देवैः क्षेत्राणि सरितस्तथा ॥ १ ॥
फलं च यादृशं यत्र तीर्थेषु स्नानदानतः ।
विधिं तु तीर्थयात्रायां नियमांश्च विशेषतः ॥ २ ॥
English Translation
The King said :-- “O Best of Munis! Tell me the names of the holy places of pilgrimage on the surface of this earth, the holy Kṣetras and the holy rivers; what are the fruits acquired in bathing there and in making charitable gifts as well; also what are the rules of the journeys and acts there are to be conducted?”