Sanskrit Text
५.३० त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।
व्यास उवाच ।
निशुम्भो निश्चयं कृत्वा मरणाय जयाय वा ।
सोद्यमः सबलः शूरो रणे देवीमुपाययौ ॥ १ ॥
English Translation
Vyāsa said :-- O King! Thus making a firm resolve that there would be either victory or death, the great warrior Niśumbha went to fight with the Devī, with great excitement and with all his forces.