Sanskrit Text
५.१७ सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।
व्यास उवाच ।
इति श्रुत्वा वचस्तस्य देवी पप्रच्छ दानवम् ।
का सा मन्दोदरी नारी कोऽसौ त्यक्तो नृपस्तया ॥ १ ॥
शठः को वा नृपः पश्चात्तन्मे ब्रूहि कथानकम् ।
विस्तरेण यथा प्राप्तं दुःखं वनितया पुनः ॥ २ ॥
English Translation
Vyāsa said :-- O King! Hearing thus, the Devī asked the Dānava, “Who is that Mandodarī? Who is that king who was not first taken by her? And who is that king whom she married afterwards? And how did she repent afterwards? Describe all these in detail to me.”