Sanskrit Text
५.१ प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।
ऋषय ऊचुः ।
भवता कथितं सूत महदाख्यानमुत्तमम् ।
कृष्णस्य चरितं दिव्यं सर्वपातकनाशनम् ॥ १ ॥
सन्देहोऽत्र महाभाग वासुदेवकथानके ।
जायते नः प्रोच्यमाने विस्तरेण महामते ॥ २ ॥
English Translation
The Ṛṣis said :-- “The great legendary story, the life of Śrī Kṛṣṇa, supremely divine, destructive of all sins, has been narrated by you, O Sūta! But, O Blessed One! You, though highly intelligent, have dwelt on it not at a great length; hence many doubts are cropping up in our minds.