Sanskrit Text
४.१९ एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् ।
व्यास उवाच ।
इत्युक्त्वा भगवान्विष्णुः पुनराह प्रजापतिम् ।
यन्मायामोहितः सर्वस्तत्त्वं जानाति नो जनः ॥ १ ॥
वयं मायावृताः कामं न स्मरामो जगद्गुरुम् ।
परमं पुरुषं शान्तं सच्चिदानन्दमव्ययम् ॥ २ ॥
अहं विष्णुरहं ब्रह्मा शिवोऽहमिति मोहिताः ।
न जानीमो वयं धातः परं वस्तु सनातनम् ॥ ३ ॥
English Translation
O Brahmā! I am Viṣṇu, I am Brahmā, I am Rudra, thus our I-ness ahamkāra has blinded our eyesight; and we are made unable to recognise That Eternal Highest Self.